🪔 गजेंद्र मोक्ष स्तोत्र सम्पूर्ण पाठ 🪔 🪷 श्री शुक उवाच 🪷 एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ॥ 1॥ 🌺 गजेन्द्र उवाच 🌺 💥 ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम । पुरुषायादिबीजाय परेशायाभिधीमहि ॥ 2॥ 💥यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं । योस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम॥ 3॥ 💥यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम । अविद्धदृक साक्ष्युभयं तदीक्षते स आत्ममूलोवतु मां परात्परः ॥ 4॥ 💥कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदासीद गहनं गभीरं यस्तस्य पारेभिविराजते विभुः ॥ 5॥ 💥न यस्य देवा ऋषयः पदं विदु- र्जन्तुः पुनः कोर्हति गन्तुमीरितुम । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥ 6॥ 💥दिदृक्षवो यस्य पदं सुमङ्गलं ...